|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.218. अध्यायः 218
Mahabharata - Vana Parva - Chapter Topics
धर्मव्याधेन कौशिकंप्रति मातापितृशुश्रूषणचोदनपूर्वकं स्वस्य शूद्रयोनौ जनननिदानकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-218-0x(2508)(24522)
गुरू निवेद्य विप्राय तौ मातापितरावुभौ।
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ 3-218-1(24523)
प्रवृत्तचक्षुर्जातोस्मि संपश्य तपसो बलम्।
यदर्थमुक्तोसि तया गच्छ त्वं मिथिलामिति ॥ 3-218-2(24524)
पतिशुश्रूषपरया दान्तया सत्यशीलया।
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ 3-218-3(24525)
ब्राह्मण उवाच। 3-218-4x(2509)
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत।
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ 3-218-4(24526)
व्याध उवाच। 3-218-5x(2510)
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो।
दृष्टमेव तया सम्यगेकपत्न्या न संशयः ॥ 3-218-5(24527)
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया।
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ 3-218-6(24528)
त्वया न पूजिता माता पिता च द्विजसत्तम।
अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिनदित ॥ 3-218-7(24529)
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम्।
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ ॥ 3-218-8(24530)
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम्।
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ॥ 3-218-9(24531)
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय।
`तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि' ॥ 3-218-10(24532)
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि।
यम्यतामद्यविप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ 3-218-11(24533)
ब्राह्मण उवाच। 3-218-12x(2511)
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्।
प्रीतोस्मि तव भद्रं ते धर्माचारगुणान्वित ॥ 3-218-12(24534)
व्याध उवाच। 3-218-13x(2512)
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः।
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ 3-218-13(24535)
मातापित्रोः सकाशं हि गत्वात्वं द्विजसत्तम।
अतन्द्रितः कुरु क्षिप्रंमातापित्रोर्हि पूजनम्।
अतः परमहं धर्मं नान्यं पश्यामि कंचन ॥ 3-218-14(24536)
ब्राह्मण उवाच। 3-218-15x(2513)
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया।
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ 3-218-15(24537)
एकोनरसहस्रेषु धर्मवानविद्यते न वा।
प्रीतोस्मि तवसत्येन भद्रं ते पुरुषर्षभ ॥ 3-218-16(24538)
पतमानोऽद्यनरके भवताऽस्मि समुद्धृतः।
भवितव्यमथैवं च यद्दृष्टोसि मयाऽनघ ॥ 3-218-17(24539)
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा।
सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह ॥ 3-218-18(24540)
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव।
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ 3-218-19(24541)
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता।
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥ 3-218-20(24542)
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया।
एतामिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम्।
कामयानस् मे शंस सर्वं त्वं प्रयतात्मवान् ॥ 3-218-21(24543)
व्याघ उवाच। 3-218-22x(2514)
अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम।
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥ 3-218-22(24544)
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः।
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः।
आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम् ॥ 3-218-23(24545)
कश्चिद्राजा मम सखा धनुर्वेदपरायणः।
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ 3-218-24(24546)
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः।
सहितो योधमुख्यैश् मन्त्रिभिश्च सुसंवृतः।
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ 3-218-25(24547)
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम।
ताडितश्च ऋषिस्तन शरेणानतपर्वणा ॥ 3-218-26(24548)
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्।
नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥ 3-218-27(24549)
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम्।
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा।
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ 3-218-28(24550)
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः।
अजानता कृतमिदं मयेत्यहमथाब्रुवम् ॥ 3-218-29(24551)
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः ॥ 3-218-30(24552)
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः।
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ 3-218-31(24553)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-218-2 प्रवृत्तचक्षुर्दिव्यदृष्टिः। तपसः पित्रोः शुश्रूषात्मकस्य ॥ 3-218-28 निष्टनन्तं शब्दं कुर्वन्तम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|